banner
सारलेखार्थम् संग्रह
***** कृषि एवं तोटगारिके विश्वविद्यालयः शिवमोग्ग एवं प्रबोधिनीगुरुकुलम्, चित्रकूटम्, हरिहरपुर *****

भारतस्य प्राचीनवाङ्मये कृषिविज्ञानम् राष्ट्रियविचारगोष्ठी


२८ तथा २९, डिसेम्बर्, २०१९

अस्माकं देशस्य श्रेष्ठशिक्षणपद्धतिषु गुरुकुलशिक्षणपद्धतिरपि अन्यतमा। तस्याः पुनरुज्जीवनार्थं कैश्चित् शिक्षणतज्ञैः सङ्कल्पः कृतः। तस्य साकारः एव प्रबोधिनी गुरुकुलम्। अस्य गुरुकुस्य अर्धमण्डलोत्सवनिमित्तं कार्यक्रमसरणिरायोजिता। तत्र“भारतस्य प्राचीनवाङ्मये कृषिविज्ञानम्”इति राष्ट्रियविचारगोष्ठी अन्यतमा। अस्य नेतृत्वं वहति शिवमोग्गस्य कृषिविश्वाविद्यालयः।

विचारगोष्ठी


अन्नं हि धान्यसञ्जातं धान्यं कृष्या विना न च।
तस्मात् सर्वं परित्यज्य कृषिं यत्नेन साधयेत् ॥


अन्नं धान्यैः प्राप्यते। धान्यश्च कृषिकर्मणैव प्राप्यते। अतः सर्वं परित्यज्य कृषिः कर्तव्या कारयितव्या चेति पराशरमुनिः अवोचत्। मानवसङ्कुलाय अन्नम् अत्यवश्यम्। तदर्थं कृषिः अनिवार्या। कृषिः जीवननिर्वहणार्थं विद्यमानं साधनमित्यतः तस्य महत्त्वम्। कृषिरेव जीवनस्याविभाज्यमङ्गम्। कृषिं विना जीवनं नास्ति। कृषिजीवनपद्धत्या दैहिकस्थिरता मानसिकस्थिरता सिध्यत्येव। जीवनं च स्वस्थं भवति। समाजः अपि स्वस्थः भवति।

इत्थं महत्त्वभूतायाः कृषेः उगमादिज्ञानं भारतीयकृषिपरम्परायाः अवगमनार्थं सहकरोति। कृषौ चक्रं हलः इत्याद्युपकरणानामुपयोगः क्रि.पू ३००० काले आरब्धः। हरप्पमोहेंजोदारो इत्यादीनां काले एव धान्यादिवर्धनार्थं कृषिविधानम् आसीत्। वेदवाङ्मयेऽपि कृषिविज्ञानस्य उल्लेखाः दृश्यन्ते। कालान्तरे राजाश्रिता कृषिः अनेकानां आक्रमणवशात् व्यवहारदिशङ्गता। एवं कालक्रमेण कृषेः औद्योगीकरणमारब्धम्। क्षामाद्याधिक्यात् सर्वकारेणापि हरितक्रान्तिः प्रारब्धा। फलाधिक्यं तथा लाभाधिक्यमेव हरितक्रान्तेः प्रमुखमुद्देश्यम्। प्रगतात् दशकद्वयात् सावयवकृषिः नैसर्गिककृषिः सहजकृषिः शाश्वतकृषिः जीवचैतन्यकृषिः इत्येवं कृषौ वैविध्यं चिन्तकैः संशोधितम्। प्रकृतकृषिशिक्षणे ब्रिटिष् व्यवस्था एव वर्तते। एतैः कृषिशिक्षणे भारतीयांशाः तिरस्कृताः। स्वातन्त्र्योत्तरमप्यस्माभिः भारतीयकृषेः भारतीयकृषिज्ञानस्य च परामर्शः न कृतः इति विपर्यास एव।

प्राचीनपद्धत्यनुसारं कृषेः महत्त्वं तथा साहित्येषु प्रपञ्चितस्य कृषिविज्ञानस्य आधुनिककाले कथमन्वयः इत्येव सङ्गोष्ठ्याः प्रधानः विषयः। गुरुकुलशिक्षणे अपि कृषिः प्रमुखविषयत्वेन अस्ति। भारतीयप्राचीनसाहित्येषु उल्लिखितानां कृषिचिन्तनानां संशोधनं कृत्वा भारतीयकृषिपरम्परायाः वैज्ञानिकदृष्ट्याधारेण प्रपञ्चनमेव गोष्ठ्याः प्रधानोद्देश्यम्।

उद्देशाः

प्रबोधिनी गुरुकुलम्

भारतीयशिक्षाव्यवस्थायाः आशयः स्वस्थसमाजस्य निर्मितिः। शङ्कराचार्याणां साधनभूमिः शृङ्गगिरिः। तदनतिदूरे हरिहरपुरे तुङ्गायाः तीरे गतदशकद्वयतः प्रबोधिनीगुरुकुलम् आशयस्यास्य संपूर्त्यै प्रयतमानं वर्तते।

द्वादशवर्षाणां शिक्षणं स्तरद्वये गुरुकुले दीयते। प्रथमतः अधिशीलमिति पञ्चवर्षात्मकं शिक्षणम्। अधिशीले वेदः, विज्ञानं, योगः, कृषिः, कलाकौशलं चेति पञ्चमुखिशिक्षणेन समं शालापठ्यक्रमस्यापि बोधनं भवति। ततः पश्चात् सप्तवर्षाणाम् अधिप्रज्ञशिक्षणम्। अधिप्रज्ञस्तरे विषयमेकमधिकृत्य उन्नताध्ययने अवकाशः अस्ति। समाजस्य सर्वेपि जनाः अत्र शिक्षिताः भवन्ति। समाजस्य पालनेनैव वर्धमानमस्ति।

सनातनसंस्कृतौ ४८ सङ्ख्या मण्डलं सूचयति। तस्मात् २४ अर्धमण्डलं भवति। १९९५ तमे वर्षे आरब्धस्य प्रबोधिनीगुरुकुलस्य अयम् अर्धमण्डलवर्षः। तस्मात् वर्षेस्मिन् बहूनि समाजोपयोगीनि कार्याणि, कार्यक्रमाश्च आयोजिताः । वेद-संस्कृत-कृषि-विषयकाणां विचारगोष्ठ्यः; शिक्षकाणां मातॄणां युवकानां च समावेशः, राज्यस्य विविधेषु भागेषु गुरुकुलपरिचयात्मकः कार्यक्रमश्च भवेदिति सङ्कल्पितम्।

कृषि मत्तु तोटगारिके विश्वविद्यालयः (UAHS)

मलेनाडुपर्यावरणे कृषेः संवर्धनार्थमयं विश्वविद्यालयः स्थापितः। शिक्षणस्य गुणवात्ताकारणतः अत्रत्य छात्राणां राष्ट्रस्तरे ख्यातिः विद्योतते। उत्कृष्टं संशोधनकार्यमपि प्रचलतीत्यतः विश्वविद्यालयोऽयं वर्षचतुष्टये एव भारतीय-कृषि-अनुसन्धानपरिषदा मानितः। राज्यस्तरे द्वितीयस्थाने राष्ट्रस्तरे २१स्थाने च वर्तते इति प्रमोदस्य विषयः। सद्यः एव आनन्दपुरे विद्यमानस्य इरुवत्तिग्रामे ७८६ एकरे परिमितायां विशालभूमौ अयं विश्वविद्यालयः स्थानान्तरीक्रियते। कृषिविषये अध्ययनम्, अध्यापनम्, अनुसन्धानं च उत्कृष्टरूपेण भवेदिति अरब्धोऽयं विश्वविद्यालयः उडुपि-दक्षिणकन्नड-कोडगु-दावणगेरे-चित्रदुर्गप्रदेशान् व्याप्य कार्यं निर्वहति। अस्य केन्द्रं तु शिवमोग्गनगरे नविले इति प्रदेशे वर्तते। बेङ्गलूरुनगरतः २७० कि.मी. दूरे अस्ति। उत्तममार्गव्यवस्था रैल् सम्पर्कश्च अस्ति। बेङ्गलूरुनगरे मङ्गलूरुनगरे च विद्यमानं विमाननिस्थानं निकटं भवति।

सम्मेलनस्य स्थानम्

कृषि-तोटगारिके विश्वविद्यालयः शिवमोग्ग (UAHS) राष्ट्रीय मुख्यमार्गः २२, नविले, शिवमोग्ग

Map Data
Map data ©2019
Map DataMap data ©2019
Map data ©2019
Map
Satellite

सारलेखार्थम् आमन्त्रणम्

सम्मेलनसम्बद्धस्य विषयस्य सारलेखाः प्रेषयितुं छात्रेभ्यः, कृषिविश्वविद्यालयेभ्यः, ICAR संस्थाभ्यः, सर्वकारीयसंस्थाभ्यः,स्वायत्तसंस्थासंशोधकेभ्यः, स्वयंसेवासंस्थाभ्यः, शिक्षणसंस्थाभ्यः, संशोधककृषकेभ्यः च आह्वानं प्रदत्तं वर्तते। सारलेखाः १५-११-२०१९ तः प्राक ई-मैल् द्वारा प्रेषणीयाः, E-mail – ncasial.2020@gmail.com , shashidhar.kumbar@gmail.com

भारतीयप्राचीनवाङ्मये गोपालनम्, पशुपालनमित्यादिकृषिसहयोगीनि कार्याणि.

  1. लेखनमण्डनम् - विचारगोष्ठ्याः निमित्तं प्रेषितं सारलेखं परिशील्य लेखनकर्तृभ्यः लेखनमण्डनावकाशः प्रदीयते। लेखनमण्डनार्थं एल्.सि.डि. स्क्रीन् अवकाशोऽपि कल्प्यते। प्रस्तुतस्य लेखस्य पूर्णं पठ्यं पुस्तके प्रकाश्यते ।

  2. भित्तिपत्रद्वारा मण्डनम् – अस्मिन् विभागे विचारगोष्ठ्याः निमित्तं प्रेषितेन सारलेखाधारेण चितेभ्यः लेखकेभ्यः अवकाशः प्रदीयते। लेखकेभ्यः स्वलेखनस्य प्रदर्शनाय 2.5(वैशाल्यम्)×4(औन्नत्यम्) पादपरिमितविस्तीर्णस्य सूचनाफलकव्यवस्था भविष्यति। तेषां सारलेखः पुस्तके प्रकट्यते।

सूचनाः

  1. भित्तिपत्रेण लेखननिरूपणार्थम् एकस्य द्वयोर्वा अंशयोः विश्लेषणात्मकलेखनाय तथा तस्य सुदीर्घविश्लेषणार्थम् आद्यता

  2. यद्येकस्मिन् लेखने एकस्मादधिकाः लेखकाः तर्हि सर्वेषां पञ्जीकरणं कृतं चेदेव प्रकटनार्थमवकाशः

  3. नाम, सङ्केतः, इ-मैल्, दूरवाणीसङ्ख्या च अनिवार्यतया उल्लेखनीयम्।

लेखनपञ्जीकरणार्थं सूचनाः

  1. सारलेखः (Abstract) : सारलेखः ३०० पदपरिमितौ भवेत्। अक्षराणां गात्रं १२ परिमितौ भवेत्। Time New Roman फ़ाण्ट् उपयुज्य लिखन्ति चेत् आनुकूल्यम्। संस्कृतं चेद् कोकिल फ़ाण्ट्/ कन्नडभाषायां चेद् नुडि फ़ाण्ट् उपयुज्यते चेद् उत्तमम्। संस्कृतेनापि लेखनानि भवितुमर्हन्ति।

  2. सम्पूर्णलेखनं तु २००० पदपरिमितौ भवेत्। अपेक्षितचित्राणि .jpg रूपेण इमैल् माध्यमेन पृथग्रूपेण प्रेषयन्तु। लेखनोट्टङ्कनार्थं Libare Office/ MS Word/ Open Office उपयोगं कुर्वन्तु। लेखनानि इ-मैल् माध्यमेन केवलं प्रेषणीयानि। इमैल् सङ्केतः – ncasial.2020@gmail.com , shashidhar.kumbar@gmail.com

  3. शीर्षकम् : शीर्षकं १६ फ़ान्ट् उपयुज्य पत्रस्य मध्यभागे योजनीयम्।.

  4. लेखकाः : लेखकानां सङ्केतं १० फ़ान्ट् उपयुज्य शीर्षकस्य अधः मध्यभागे योजयन्तु।

  5. विषयः : लेखनं १२ फ़ान्ट् उपयुज्य लिखेयुः, पत्रिकायाः उभयपार्श्वे समत्वं (justify) च कर्तव्यम्।

  6. उद्धरणानां लेखनावसरे प्रथमलेखकस्य अन्तिमनाम (Last name), प्रथमनाम (First Name/initials), पुस्तकस्य/ संशोधनालेखनस्य शीर्षकम्, प्रकाशकानाम्/शोधपत्रिकायाः शीर्षकम्, सम्पुटसङ्ख्या, प्रकटनवर्षम् इति क्रमम् अनुसरन्तु।

कार्यक्रमः

कार्यक्रमः दिक्सूच्युपन्यासैः, आह्वानितोपन्यासैः, सम्मेलनस्य विषयाधारितक्षेत्रेषु सद्यःकालीनसंशोधनप्रगतीनां विषये मौखिकैः/ भित्तिपत्रैश्व प्रस्तुतिः भवति।

सम्मेलनस्य विषयाः

विचारसङ्किरणेस्मिन् अधोनिर्दिष्टानि कार्यक्षेत्राणि प्राधान्येन परिगण्यन्ते।

पञ्जीकरणम्

  अवलोक्यताम् :   ₹
नवेम्बर् १५ दिनाङ्कात् प्राक् नवेम्बर् १५ दिनाङ्कात् विलम्बेन/ विचारसङ्किरणदिने च।
विद्यार्थिनः५००/-८००/
कृषकाः८००/-१०००/-
विज्ञानिनः/भागभाजः १०००/-१५००/-
सहयोगिनः८००/-१०००/-

सेमिनार् किट्, आहारः तथा सारलेखानां सङ्ग्रहप्रतिः च पञ्जीकृतेभ्यः उपलभ्यते।

विज्ञापनम् (Advertisement)

सारलेखानां पुस्तकस्य/स्मरणसञ्चिकायाः अधः प्रदत्तशुल्केन सह विज्ञापनस्थानं लभ्यते।

वर्गःधनराशिः (रू)
वर्णरञ्जितपुटम् मुखपुटस्य पृष्ठतः३५,०००.००
अन्तिमरक्षापुटम्३०,०००.००
अन्तिमरक्षापुटस्य अन्तः२५,०००.००
पूर्णपुटम् वर्णरहितपुटम्२०,०००.००
पूर्णपुटम्१०,०००.००
अर्धपुटम्०५,०००.००

शुल्कप्रेषणविधानम्

डा. के. सि. शशिधर.
प्राध्यापकाः तथा मुख्यस्थाः,
कृषि इञ्जिनियरिङ्ग् विभागः,
कृषि-तोटगारिके विश्वविद्यालयः, शिवमोग्ग 577225
(mob: +91 94481 03268)

पञ्जीकरणशुल्कं तथा विज्ञापनशुल्कं (Advertisement) निर्दिष्टदिनात् प्राक् अधोनिर्दिष्टसङ्ख्यायै Online द्वारा प्रेषयितुं शक्यते।

A/c 09052200069055,
IFSC Code – SYNB0000905,
Syndicate Bank, Hariharapura Branch, 577120

QR Code भीम् द्वारा/QR कोड् उपयुज्यापि प्रेषयितुं शक्यते।

राष्ट्रीयसङ्घटनासमितिः

मुख्यप्रवर्तकाः

डा॥ एम्. के. नायक्, कुलपतयः, कृतोविवि शिवमोग्ग,

गुरुसेवाधुरीणाः, पद्मश्री डा॥ वि. आर्. गौरीशङ्करः, कार्यनिर्वहणाधिकारिणः, जगद्गुरु-शङ्कराचार्य-शारदा-दक्षिणाम्नाय-पीठम्, शृङ्गेरी

गौरवाध्यक्षाः

डा. एस् राजेन्द्रप्रसाद्,कुलपतयः, कृविवि बेङ्गलूरु

डा. एम् बि चेट्टि, कुलपतयः, कृविवि, धारवाड

डा. के.एन् कट्टीमनि, कुलपयः, कृविवि, रायचूरु

डा. के. एम्. इन्दिरेश्, कुलपयः, तोविवि, बागलकोटे

डा. एच्. डि. नारायणस्वामि, कुलपयः, कपप्रामीविवि,बीदर्

डा. के.पि विश्वनाथ्, कुलपतयः, एम्. पि.के.वि.वि. राहुरि

डा. रामचन्द्र भट् कोटेमने, विश्रान्तकुलपतयः, एस्-व्यास योगविश्वविद्यालयः, बेङ्गलूरु

डा.विजय सङ्केश्वर, संस्थापकाः, विआरेल् समूहसंस्थाः, हुब्बळ्ळि,

अध्यक्षाः

डा. बि हेम्ला नायक्, कुलसचिवाः, कृतोविवि, शिवमोग्ग

उपाध्याक्षाः

//

श्री पि. वेणुगोपाल रेड्डि, अध्यक्षाः, एकलव्यप्रतिष्ठानम्, हैदराबाद्

श्री मनोज् सोलङ्कि, राष्ट्रीय अध्यक्षाः, अक्षय कृषि परिवारः, गुजरात्

श्री ऐ.एन्.बसवेगौड, राष्ट्रीय अध्यक्षाः, भारतीयकिसान्सङ्घः

सदस्याः

डा. एम्. मञ्जुनाथ, शिक्षण निर्देशकाः, कृतोविविशि

डा. बि. आर्. गुरुमूर्ति,संशोधननिर्देशकाः, कृतोविविशि

डा. एस्.पि नटराजु, विस्तरणा निर्देशकाः, कृतोविविशि

डा. टि. एस्. वागीश,डीन् (पिजिएस्), कृतोविविशि

डा. दिनेश् कुमार्, डीन् (विद्यार्थि कल्याण),कृतोविविशि

डा. एच्. एम्. चिदानन्दप्प, डीन्, (कृषिः), कृतोविविशि

डा. सि.जे. कुशालप्प, डीन् (अरण्यम्), कृतोविविशि

डा. एं हनुमन्तप्प, डीन् (तोट), कृतोविविशि

डा. नारायणस्वामि, डीन् (तोट) कृतोविविशि

डा. एच्. रवीन्द्र, ग्रन्थपालकाः, कृतोविविशि

श्री.गणेशप्प, वित्ताधिकारिणः, कृतोविविशि

श्री एच्. वि. विजय्, आस्ति आधिकारिणः, कृतोविविशि

डा. प्रकाश् नडूरु, पशुवैद्यकीयमहाविद्यालयः, शिवमोग्ग

डा. महाबलेश्वर एस् भट्,संयोजकाः, गुरुकुलशिक्षणम्, कर्नाटक

श्री प्रसन्नकुमार्, सहसंयोजकाः, गुरुकुलशिक्षणम् कर्नाटक

डा. बसवप्रभु जिरलि, प्राध्यापकाः, बनारस् हिन्दू विवि

प्रो. प्रेमशेखर,अङ्कणकाराः, निवृत्तप्रोफेसर् पाण्डिचेरि विश्वविद्यालयः

डा. दोड्डरङ्गेगौड,अध्यक्षाः, अखिलभारतीयसाहित्यपरिषत्, कर्णाटक, विधानपरिषत्सदस्यचराः

डा. एस्. आर् लीला, साहितिः, विधानपरिषत्सदस्यचराः

सञ्चालकाः

श्री अरुण कुमार् वि. के. पुरुषोत्तमराव्-कृषि-संशोधना-प्रतिष्ठानम्, तीर्थहळ्ळि

डा. बि. एम्. दुश्यन्त कुमार्,प्राध्यापकाः, कृतोविवि, शिवमोग्ग

तान्त्रिकसमितिः

अध्यक्षाः

श्री एच्. बि. राजगोपाल्,निर्वाहकविश्वस्ताः, प्रबोधिनी ट्रस्ट्

उपाध्यक्षाः

डा. एस्. भास्कर, ए.डि.जि (ए.ए.एफ़्.&सि.सि) भारतीय-कृषि-अनुसान्धान-परिषत्, नवदेहली

डा. आनन्द आ. श्री., सावयव कृषि मिशन् अध्यक्षचराः, कर्नाटक सर्वकारः तथा अध्यक्षाः, सुभिक्षा-सावयव-कृषकाणां-बहुराज्य-सहकार-सङ्घः नि. तीर्थहळ्ळि

श्री नञ्जुण्डप्प, राज्याध्यक्षाः सावय-कृषि-परिवारः

सदस्याः

डा. विजयकुमार् गिड्नवर्,कृषिविज्ञानिनः, धारवाड

डा.एस्.प्रदीप, संयोजकाः, सावयव-संशोधना-केन्द्रम्, कृतोविवि शिवमोग्ग

डा. एम्. शिवमूर्ति, कृषिविज्ञानिनः बेङ्गलूरु

डा. बि. एम्. चितापुर्, कृषिविज्ञानिनः, रायचूरु

डा. एस् गङ्गाप्रसाद् , प्राध्यापकाः, कृतोविवि शिवमोग्ग

डा. के. एच् . नागराज, सम्पादकाः, कृविवि बेङ्गलूरु

डा. अनिल कुमार् मुगळि,सह सम्पादकाः, कृविवि धारवाड

डा. एच् इ शशिधर, मुख्यकार्यनिर्वहणाधिकारिणः, कल्टिवा, बेङ्गलूरु

डा. गणपति, कृतोविवि शिवमोग्ग

श्री गजेन्द्र गोरसुकुडिगे,पश्चिघट्ट-संरक्षणान्दोलनस्य सञ्चालकाः

श्री दिनेश देववृन्द,सम्पादकाः, कृषिक-पत्रिका, मूडिगेरे

श्री जगदीश राव् करिमने, खजाञ्जि, प्रबोधिनी ट्रस्ट्್

श्री नागेश राव् ए.पि, कृषिकाः अगलि, कोप्प तालूकु

श्री दिनेश सरु विश्वस्ताः,कृषिप्रयोगपरिवारः

श्री श्रीवत्स, राज्यसञ्चालकाः, सावयवकृषिपरिवारः

श्री केशव केञ्जिगे, अद्ध्यक्षाः, बि.जि.एल्, राष्ट्रप्रशस्तिपुरस्कृताः

डा. विवेक बि.एस्, कृषकाः

श्री रामदेव्, काफिकृषकाः, बेट्टदमळलि एस्टेट्

श्री निरञ्जन के. एस्, विज्ञानिनः, कृतोविवि शिवमोग्ग

श्री कुमारस्वामि उडुप, उपन्यासकाः, जेसिबिएम् कालेज्, शृङ्गेरि

श्री कार्तिक वाग्ळे, उपन्यासकाः, जेसिबिएम् कालेज्, शृङ्गेरि

श्री नागेश के एस्, आचार्यः, प्रबोधिनी गुरुकुलम्

श्री राजिव् प्र नाडिग्, प्रभात् सर्विसस्, शिवमोग्ग

सञ्चालकाः

डा. बि. ऐ. हळिङ्गळि,प्राध्यापकाः, कृतोविवि, शिवमोग्ग

श्री अनीश एम्,प्रधानाचार्यः, अधिप्रज्ञम्, प्रबोधिनी गुरुकुलम्

सङ्घटनाकार्यदर्शी

डा. के. सि. शशिधर,प्राध्यापकाः तथा मुख्यस्थाः, कृषि इञ्जिनियरिङ्ग् विभागः, कृषि-तोटगारिके विश्वविद्यालयः, शिवमोग्ग